|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.23. अध्यायः 023
Mahabharata - Strii Parva - Chapter Topics
कृष्णप्रति गान्धार्या भीष्मद्रोणादिगुणानुवर्णनपूर्वकं तत्तच्छरीराणां विलपन्तीनां त्तत्स्त्रीणां च प्रदर्शनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
गान्धार्युवाच। 11-23-0x(5358)(65441)
एष शल्यो हतः शेते साक्षान्नकुलमातुलः।
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे॥ 11-23-1(65442)
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ।
स एष निहतः शेते मद्रराजो महाबलः॥ 11-23-2(65443)
`जयद्रथे यदि ब्रूयुरुपरोधं कथञ्चन।
मद्रपुत्रे कथं ब्रूयुरुपरोधं विवक्षवः॥' 11-23-3(65444)
येन सङ्गृह्णता तात रथमाधिरथेर्युधि।
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः॥ 11-23-4(65445)
अहो धिक्फश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्।
मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम्॥ 11-23-5(65446)
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा।
आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः॥ 11-23-6(65447)
युधिष्ठिरेण निहतं शल्यं समितिशोभनम्।
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः॥ 11-23-7(65448)
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्।
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम्॥ 11-23-8(65449)
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः।
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम्॥ 11-23-9(65450)
शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन।
शयानं वीरशयने शरैर्विशकलीकृतम्॥ 11-23-10(65451)
एष शैलालयो राजा भगदत्तः प्रतापवान्।
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः॥ 11-23-11(65452)
यस्य रुक्ममयी माला शिरस्येषा विराजते।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्॥ 11-23-12(65453)
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्।
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा॥ 11-23-13(65454)
योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम्।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः॥ 11-23-14(65455)
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन्।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे॥ 11-23-15(65456)
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्।
युगान्त इव कालेन पातितं सूर्यमम्बरात्॥ 11-23-16(65457)
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान्।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव॥ 11-23-17(65458)
शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम्।
शयानं वीरशयने पश्य शूरनिषेविते॥ 11-23-18(65459)
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा॥ 11-23-19(65460)
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना॥ 11-23-20(65461)
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः।
एष शान्तनवः शेते माधवाप्रतिमो युधि॥ 11-23-21(65462)
धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्॥ 11-23-22(65463)
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी।
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः॥ 11-23-23(65464)
स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः।
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना॥ 11-23-24(65465)
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्॥ 11-23-25(65466)
धर्मेण कुरवः केन परिद्रक्ष्यन्ति माधव।
हते देवव्रते भीष्मे देवकल्पे नरर्षभे॥ 11-23-26(65467)
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा।
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम्॥ 11-23-27(65468)
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव॥ 11-23-28(65469)
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्।
चकार स हतः शेते नैनमस्त्राण्यपालयन्॥ 11-23-29(65470)
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रपृथक्कृतः॥ 11-23-30(65471)
यस्य निर्दहतः सेनां गतिरग्नरिवाभवत्।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः॥ 11-23-31(65472)
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा॥ 11-23-32(65473)
वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः॥ 11-23-33(65474)
चन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ॥ 11-23-34(65475)
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना॥ 11-23-35(65476)
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम्॥ 11-23-36(65477)
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी॥ 11-23-37(65478)
प्रेतकृत्ये च यतते कृपी कृपणमातुरा।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी॥ 11-23-38(65479)
अग्नीनाधाय विविधवच्चितां प्रज्वाल्य सर्वतः।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः॥ 11-23-39(65480)
कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव॥ 11-23-40(65481)
शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम्।
त एते द्रोणमादाय गायन्ति च रुदन्ति च॥ 11-23-41(65482)
सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे।
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने॥ 11-23-42(65483)
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तथा॥ ॥ 11-23-43(65484)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि त्रयोविंशोऽध्यायः॥ 23 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-23-9 परिमग्निमिव द्विपमिति झ.पाठः॥ 11-23-13 अहिना वृत्रासुरेण॥ 11-23-15 भीष्मकृत् भयङ्करकर्मकृत्॥ 11-23-21 शास्त्रं आज्ञाम्॥ 11-23-22 निर्णिये पारावर्येण । परावरौ परलोकेहलोकौ तद्विषयेण ज्ञानेन। तत्त्वज्ञानबलेन प्राणानधारयदित्यर्थः। पारपर्येऽथ निर्णय इति छ.पाठः। पाराशर्यस्य निर्णये इति क.ट.पाठः॥ 11-23-26 धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव। गते देवव्रते स्वर्गं देवकल्पे नरर्षभे इति झ.पाठः॥ 11-23-34 शिष्यशरार्चिताविति क.पाठः॥ 11-23-23 त्रोयविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|